अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
अल्पाक्षरम् - अक्षराणाम् अल्पता, अदन्दिग्धम् - सन्देहाभाववत्वं, सारवत् - सारभूतत्वं, विश्वतोमुखम् - वक्तव्यसर्वविषयव्यापित्वं, (स्तोभः निरर्थकमक्षरम्) अस्तोभं निरर्थकाक्षरराहित्यम्, (अवद्यम् अर्थदोषः), अनवद्यम् अर्थदोषराहित्यम् एते यत्र भवन्ति तत्सूत्रमिति कथ्यते । अत्रार्थे कारिकान्तरम् ।
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ - भामती
Wish the meanings were also in English.
ReplyDelete