यतश्च
इयं वेदभाषा अतः अपि इयं देवभाषा । वेदाः स्वस्य अवगतेः पन्थानं प्रदर्शयन्ति । यः
स्वात्मानमेव न जानाति स कथम् इदं जगत् अवगच्छेत् ! यया भाषया वेदाः अवगन्तुं शक्यन्ते
सा संस्कृतभाषा । वेदोक्ताः अर्थाः यथा अनया भाषया प्रकाश्यन्ते न तथा अन्यया भाषया
। यथा ‘प्रेतः’ इत्यस्य कः अर्थः आङ्ग्लभाषायां वक्तुं शक्यः । Dead इति अस्य विवरणं
कर्तव्यम् । किं प्रेतः इत्यस्य तावानेव अर्थः ? प्र-उपसर्गपूर्वकस्य इण् गतौ इति धातोः
क्तप्रत्ययान्तं रूपं प्रेतः इति । प्रकर्षेण गतः इत्यर्थः । यः गच्छति सः कुतश्चित्
देशात् देशान्तरं गच्छति । अत्र कस्य कुतः गमनम् ? सूक्ष्मशरीरस्य स्थूलशरीरात् गमनम्
। एवं च प्रेतः नाम स्थूलशरीरं परित्यज्य गतः इत्यर्थः । प्रेतः इति पदेन स्थूलशरीरात्
भिन्नं किञ्चित् सूक्ष्मशरीरं वर्तते, तस्य स्थूलशरीरात् वियोगः एव मरणम् । तच्च सूक्ष्मशरीरं
स्वकर्मानुसारं शरीरान्तरप्राप्तये गच्छति इत्यादयः अर्थाः मनसि उपतिष्ठन्ते । किमेते
अर्थाः Dead इति एकेन पदेन निर्वक्तुं शक्याः । एषा भाषा संस्कारयुक्ता इत्यतः एव एतावन्तमर्थं
बोधयितुं शक्नोति । एवं च संस्कृतं वेदार्थम् अवगमयति तेन च स्वस्वरूपावगमः । यतः एवं स्वस्य (देवस्य) अवगतये सहकरोति अतः इयं
देवभाषा ।
No comments:
Post a Comment