भारतीयपरम्परायां कानिचन पदानि
प्रसिद्धानि वर्तन्ते । तत्रापि संस्कारः संस्कृतिः इति पदद्वयं बहुकृत्वः प्रयुज्यते
। प्रत्येकं व्यक्तौ विद्यमानानां दोषाणां दूरीकरणाय गुणानाम् आधानाय वा ये च नियमाः
उक्ताः ते संस्काराः इति कथ्यन्ते । गर्भाधानादारभ्य आमरणं बहुविधसंस्काराः उक्ताः
अस्यां परम्परायाम् । यथा संस्कारैः क्वचित् क्षिप्तमपि पाषाणं विग्रहरूपतां प्राप्य
सर्वैः संपूज्यं भवति एवं मनुष्यः अपि देवस्वरूपतां विन्दति । या परम्परा संस्कारघटिता
सा संस्कृतिः इति कथ्यते । संस्कारश्च प्राधान्येन व्यक्तिस्तरे भवति । अतः संस्कृतिः
अपि व्यक्तौ गुणाधानार्थं दोषापनयनार्थं वा प्रयतते । तस्मात् एव संस्कृतौ धर्मस्य
प्राधान्यम् । यस्मात् अभ्युदयनिश्श्रेयससिद्धिः भवति स धर्मः । अद्यत्वे नागरीकता प्राधान्यं वहति । अत्र व्यक्तिसंस्कारापेक्षया
व्यक्तिस्वातन्त्र्यं प्रधानम् । संस्कारः स्वातन्त्र्यम् अंशतः निर्बध्नाति । अतः
अनयोः विरोधः वर्तते इति केचन मन्वते । संस्कारस्य प्राप्त्यर्थं संस्कृतेः पालनार्थं
च संस्कृतमपेक्षितमेव ।
No comments:
Post a Comment