प्रश्नः - ननु “पठनीयं मया
श्लोकः” इति प्रयोगः समीचीनः वा? श्लोकः इति शब्दः पुंलिङ्गे अस्ति, अतः ‘पठनीयः’ इति
पुंलिङ्गे एव प्रयोगः करणीयः खलु? एवं “वक्तव्यं भवता कथा” इत्यादिप्रयोगाः समीचीनाः
वा ?
उत्तरम् - समीचीनम्, भाष्येऽपि
एतादृशः प्रयोगः दृश्यते । यथा “शक्यं चानेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्”
(महाभाष्ये पश्पशाह्निके ‘लोकतः अर्थप्रयुक्ते शास्त्रेण धर्मनियमः यथा लौकिकवैदिकेषु’
इति वार्तिकस्य व्याख्यानावसरे) इति । अत्र क्षुत् इति स्त्रीलिङ्गे वर्तते अतः ‘शक्या’
इति वक्तव्ये शक्यमिति प्रयोगः भाष्यकारैः कृतः । तत्र कैयटेन उक्तम्, कर्मसामान्यविवक्षायां
प्रयुक्तं नपुंसकं ततः शब्दान्तरसम्बन्धात् उपजायमानमपि स्त्रीत्वं बहिरङ्गत्वात् न
बाधते इति । शक्या---क्षुत् प्रयोगः अपि समीचीनः एव । तदा प्रयुज्यमानं विशेष्यं मनसि
निधाय प्रयोगः कृतः इति वक्तव्यम् । एवं पठनीयमिति प्रयोगकाले अपि क्रियासामान्यविवक्षया
नपुंसकप्रयोगः । ततः श्लोकः इत्यस्य प्रयोगेऽपि न दोषः । किन्तु “श्लोकः मया पठनीयम्’
इति प्रयोगः न समीचीनः । अत्र विशेष्यस्य पूर्वमेव प्रयुक्तत्वात् ।
No comments:
Post a Comment