संस्कृतमिति पदं न भाषायाः
संज्ञा, अपितु विशेषणम् । संस्कारयुक्तमित्यर्थः । संस्कारश्च गुणाधानेन दोषापनयनेन
वा भवति । यस्याः भाषायाः दोषाः अपनीताः यस्यां च गुणाः आहिताः सा भाषा संस्कृतमिति
कथ्यते । समुपसर्गपूर्वक-कृधातोः क्तप्रत्ययेन निष्पन्ने अस्मिन् शब्दे सुटः सकारः
भूषणे अर्थात् अलङ्करणे (संपरिभ्यां करोतौ भूषणे – अष्टाध्यायी. ६/१/१३७) अर्थे वर्तते । अतः अलङ्कृता इत्यर्थः लभ्यते ।
तथा च गुणाधानेन दोषापनयनेन वा अलङ्कृता भाषा संस्कृतमिति पदेन व्यवह्रियते इति पर्यवस्यति
। अस्यां भाषायां वर्णस्तरे दोषाः परिहृताः, वर्णोच्चारणस्थाननिर्देशेन । कण्ठः, तालु,
मूर्धा, दन्ताः, ओष्ठौ, नासिका इत्येवं वर्णोच्चारणस्य स्थानानि निर्दिश्य तत्तत्थाने
निष्पन्नाः चेदेव ते वर्णाः शुद्धाः अन्यथा अशुद्धाः इत्येवं गुणाधानेन संस्कारः कृतः
वर्णस्तरे । किं पदं शुद्धं किं च अशुद्धमिति
निर्णयाय व्याकरणेन नियमान् प्रदर्श्य पदस्तरे वाक्यस्तरे च दोषाः परिहृताः । इत्येवं
वर्णस्तरे पदस्तरे वाक्यस्तरे च संस्कृतत्वात् एषा संस्कृतभाषा । या स्वयं परिशुद्धा
सा एव भाषा वक्तृषु विद्यमानान् दोषान् परिहृत्य संस्कृतान् कर्तुं शक्नोति । यथा यथा मनुष्याः संस्कृताः भवन्ति तथा ते देवाः भवन्ति
। यतः एषा मनुष्यान् संस्कृत्य देवान् करोति अतः एषा देवभाषा इति कथ्यते ।
No comments:
Post a Comment