गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्
।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः
सीद सादनम् ।
ऋग्वेदः – २/३/२३
अयं गृत्स्नमद-ऋषेः मन्त्रः । अस्य मन्त्रस्य देवता
ब्रह्मणस्पतिः । यद्यपि अत्र पुराणादिषु प्रसिद्धः गणपतिः देवता न, तथापि अयं वेदोक्तः
ब्रह्मणस्पतिः एव कालान्तरे गणपतित्वेन परिकल्पितः इति विदुषां वादः ।
अस्य मन्त्रस्य त्वयमर्थः सायणभाष्ये उपलभ्यते । हे ब्रह्मणस्पते - ब्रह्मणः अन्नस्य कर्मणः
मन्त्राणां वा पतिः, गणानां - देवगणानां
सम्बन्धिनं, गणपतिं - स्वगणानां पतिः तं,
कवीनां कविं – क्रान्तदर्शिनां क्रान्तदर्शी
तं, उपमश्रवस्तमं – श्रेष्ठान्नवन्तं,
ज्येष्ठराजम् – श्लाघ्यानां मध्ये राजन्तं,
ब्रह्मणां – मन्त्राणां स्वामिनं, त्वा हवामहे – त्वाम् अस्मिन् कर्मणि आह्वयामः,
नः - अस्माकं, स्तुतीः शृण्वन्, ऊतिभिः – रक्षणैः, सादनम् – यज्ञगृहम्, आ सीद – उपविश ।
गणपतेः
अद्यत्वे आदिपूज्यत्वादयः ये धर्माः उच्यन्ते तेषां मूलमत्रैव दृश्यते । अत्र ब्रह्मणस्पतिः
कर्मणां पतिः, देवगणानां पतिः, क्रान्तदर्शिनाम् अपि क्रान्तदर्शी अतः विद्याधिदेवः,
अन्नस्य पतिः अतः सर्वभक्ष्याणां प्रदाता, यज्ञकर्तुः यज्ञस्य च रक्षकः अतः सर्वविघ्नानां
विनाशकः ।
एतादृशं गणपतिमद्य स्तुमः
No comments:
Post a Comment