Pages

Wednesday, September 30, 2015

व्याख्यानम्


पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं षड्विधं मतम् ॥


व्याख्यानमिति तत् कथ्यते यत्र एते षडंशाः भवन्ति । ते च पदविभागः पदार्थानां कथनम्, समासानां विग्रहप्रदर्शनम्, वाक्यानां योजनम्, आक्षेपः समाधानम् इति । तद्यथा काशिकाग्रन्थे वृद्धिरादैच् इति पाणिनीयसूत्रस्य निरूपणावसरे, पदच्छेदः – वृद्धिः आत्-ऐच्, पदार्थोक्तिः – वृद्धिः संज्ञा आत् दीर्घाकारात् ऐच् – ऐ औ, विग्रहः – आत् च ऐत् च आदैच् । वाक्ययोजना – आदैच् आ ऐ औ एते वृद्धिसंज्ञकाः स्युः, आक्षेपः – ननु अयं नियमः प्रसिद्धः यत् उद्देशमुक्त्वा ततः विधेयः वक्तव्यः इति ? कथमत्र विधेयस्य सूत्रस्य प्राथम्यम् ? समाधानम् – वृद्धेः मङ्गलार्थकत्वात् तस्य प्राथम्येन प्रयोगः ।

व्याकरणशास्त्रस्य प्रमुखाः ग्रन्थाः

अष्टाध्यायी – पाणिनिः
वार्तिकम् – वररुचिः (कात्यायनः)
महाभाष्यम् – पतञ्जलिः
        1.    प्रदीपः – कैयटः (महाभाष्यव्याख्यानम्)
        2.   उद्योतः – नागेशः (महाभाष्यव्याख्यानम्)

सूत्रक्रमेण व्याख्यानम्
काशिका – वामनः, जयादित्यः
        1.   न्यासः – जिनेन्द्रबुद्धिः (काशिकाव्याख्यानम्)
        2.   पदमञ्जरी – हरदत्तः (काशिकाव्याख्यानम्)
शब्दकौस्तुभः - भट्टोजिदीक्षितः

प्रक्रियाक्रमेण व्याख्यानम्
प्रक्रियाकौमुदी – रामचन्द्राचार्यः
          1. प्रसादः – विट्ठलाचार्यः (व्याख्यानम्)
सिद्धान्तकौमुदी – भट्टोजिदीक्षितः
          1. बालमनोरमा – वासुदेवदीक्षितः (कौमुदीव्याख्यानम्)
          2.  तत्त्वबोधिनी – ज्ञानेन्द्रसरस्वती (कौमुदीव्याख्यानम्)
          3.  प्रौढमनोरमा – भट्टोजिदीक्षितः (कौमुदीव्याख्यानम्)
              a.   बृहच्छब्दरत्नम्, लघुशब्दरत्नम् – हरिदीक्षितः (भट्टोजिदीक्षितस्य पौत्रः, नागेशभट्टस्य अयं ग्रन्थः इति केचित्)
              b.   रत्नप्रभा – सभापत्युपाध्यायः
              c.   सरला – नेनेपण्डितगोपालशास्त्री
              d.   प्रभा – भाण्डारिमाधवशास्त्री
              e.   बृहच्छन्देन्दुशेखरः, लघुशब्देन्दुशेखरः – नागेशभट्टः (व्याख्यानम्, स्वतन्त्रविचाराश्च । भट्टोजिदीक्षितानां पौत्रस्य शिष्यः)
                                    i.   चन्द्रकला – भैरवमिश्रः (शेखरग्रन्थस्य व्याख्यानम्)
                                   ii.   चिदस्थिमाला – पायगुण्डेवैद्यनाथः (शेखरग्रन्थस्य व्याख्यानम्)
                                  iii.   दीपकः – नित्यानन्दपन्तः (शेखरग्रन्थस्य व्याख्यानम्)

लघुसिद्धान्तकौमुदी - वरदराजभट्टाचार्यः


अन्ये ग्रन्थाः –
वाक्यपदीयम् – भर्तृहरिः
    1.   अम्बाकर्त्री – रघुनाथशर्मा
परिभाषेन्दुशेखरः – नागेशभट्टः
    1.   गदा – पायगुण्डेवैद्यनाथः
    2.   हैमवती – यागेश्वर-ओझा
वैयाकरणभूषणकारिकाः - भट्टोजिदीक्षितः
  वैयाकरणसिद्धान्तभूषणम्/ वैयाकरणसिद्धान्तभूषणसारः – कौण्डिभट्टः (भट्टोजिदीक्षितस्य भ्रातुष्पुत्रः)
        1.   काशिका – हरिरामकेशव काले
        2.   दर्पणम् - हरिवल्लभशर्मा

लघुमञ्जूषा,, परमलघुमञ्जूषा  - नागेशभट्टः 

Monday, September 28, 2015

संस्कृतं संस्कृतिः च

भारतीयपरम्परायां कानिचन पदानि प्रसिद्धानि वर्तन्ते । तत्रापि संस्कारः संस्कृतिः इति पदद्वयं बहुकृत्वः प्रयुज्यते । प्रत्येकं व्यक्तौ विद्यमानानां दोषाणां दूरीकरणाय गुणानाम् आधानाय वा ये च नियमाः उक्ताः ते संस्काराः इति कथ्यन्ते । गर्भाधानादारभ्य आमरणं बहुविधसंस्काराः उक्ताः अस्यां परम्परायाम् । यथा संस्कारैः क्वचित् क्षिप्तमपि पाषाणं विग्रहरूपतां प्राप्य सर्वैः संपूज्यं भवति एवं मनुष्यः अपि देवस्वरूपतां विन्दति । या परम्परा संस्कारघटिता सा संस्कृतिः इति कथ्यते । संस्कारश्च प्राधान्येन व्यक्तिस्तरे भवति । अतः संस्कृतिः अपि व्यक्तौ गुणाधानार्थं दोषापनयनार्थं वा प्रयतते । तस्मात् एव संस्कृतौ धर्मस्य प्राधान्यम् । यस्मात् अभ्युदयनिश्श्रेयससिद्धिः भवति स धर्मः ।  अद्यत्वे नागरीकता प्राधान्यं वहति । अत्र व्यक्तिसंस्कारापेक्षया व्यक्तिस्वातन्त्र्यं प्रधानम् । संस्कारः स्वातन्त्र्यम् अंशतः निर्बध्नाति । अतः अनयोः विरोधः वर्तते इति केचन मन्वते । संस्कारस्य प्राप्त्यर्थं संस्कृतेः पालनार्थं च संस्कृतमपेक्षितमेव । 

Wednesday, September 23, 2015

संस्कृतं वेदभाषा अतः अपि देवभाषा

       यतश्च इयं वेदभाषा अतः अपि इयं देवभाषा । वेदाः स्वस्य अवगतेः पन्थानं प्रदर्शयन्ति । यः स्वात्मानमेव न जानाति स कथम् इदं जगत् अवगच्छेत् ! यया भाषया वेदाः अवगन्तुं शक्यन्ते सा संस्कृतभाषा । वेदोक्ताः अर्थाः यथा अनया भाषया प्रकाश्यन्ते न तथा अन्यया भाषया । यथा ‘प्रेतः’ इत्यस्य कः अर्थः आङ्ग्लभाषायां वक्तुं शक्यः । Dead इति अस्य विवरणं कर्तव्यम् । किं प्रेतः इत्यस्य तावानेव अर्थः ? प्र-उपसर्गपूर्वकस्य इण् गतौ इति धातोः क्तप्रत्ययान्तं रूपं प्रेतः इति । प्रकर्षेण गतः इत्यर्थः । यः गच्छति सः कुतश्चित् देशात् देशान्तरं गच्छति । अत्र कस्य कुतः गमनम् ? सूक्ष्मशरीरस्य स्थूलशरीरात् गमनम् । एवं च प्रेतः नाम स्थूलशरीरं परित्यज्य गतः इत्यर्थः । प्रेतः इति पदेन स्थूलशरीरात् भिन्नं किञ्चित् सूक्ष्मशरीरं वर्तते, तस्य स्थूलशरीरात् वियोगः एव मरणम् । तच्च सूक्ष्मशरीरं स्वकर्मानुसारं शरीरान्तरप्राप्तये गच्छति इत्यादयः अर्थाः मनसि उपतिष्ठन्ते । किमेते अर्थाः Dead इति एकेन पदेन निर्वक्तुं शक्याः । एषा भाषा संस्कारयुक्ता इत्यतः एव एतावन्तमर्थं बोधयितुं शक्नोति । एवं च संस्कृतं वेदार्थम् अवगमयति तेन च स्वस्वरूपावगमः ।  यतः एवं स्वस्य (देवस्य) अवगतये सहकरोति अतः इयं देवभाषा ।

Sunday, September 20, 2015

किमर्थं संस्कृतं देवभाषा




संस्कृतमिति पदं न भाषायाः संज्ञा, अपितु विशेषणम् । संस्कारयुक्तमित्यर्थः । संस्कारश्च गुणाधानेन दोषापनयनेन वा भवति । यस्याः भाषायाः दोषाः अपनीताः यस्यां च गुणाः आहिताः सा भाषा संस्कृतमिति कथ्यते । समुपसर्गपूर्वक-कृधातोः क्तप्रत्ययेन निष्पन्ने अस्मिन् शब्दे सुटः सकारः भूषणे अर्थात् अलङ्करणे (संपरिभ्यां करोतौ भूषणे – अष्टाध्यायी. ६/१/१३७)  अर्थे वर्तते । अतः अलङ्कृता इत्यर्थः लभ्यते । तथा च गुणाधानेन दोषापनयनेन वा अलङ्कृता भाषा संस्कृतमिति पदेन व्यवह्रियते इति पर्यवस्यति । अस्यां भाषायां वर्णस्तरे दोषाः परिहृताः, वर्णोच्चारणस्थाननिर्देशेन । कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ, नासिका इत्येवं वर्णोच्चारणस्य स्थानानि निर्दिश्य तत्तत्थाने निष्पन्नाः चेदेव ते वर्णाः शुद्धाः अन्यथा अशुद्धाः इत्येवं गुणाधानेन संस्कारः कृतः वर्णस्तरे ।  किं पदं शुद्धं किं च अशुद्धमिति निर्णयाय व्याकरणेन नियमान् प्रदर्श्य पदस्तरे वाक्यस्तरे च दोषाः परिहृताः । इत्येवं वर्णस्तरे पदस्तरे वाक्यस्तरे च संस्कृतत्वात् एषा संस्कृतभाषा । या स्वयं परिशुद्धा सा एव भाषा वक्तृषु विद्यमानान् दोषान् परिहृत्य संस्कृतान् कर्तुं शक्नोति । यथा यथा  मनुष्याः संस्कृताः भवन्ति तथा ते देवाः भवन्ति । यतः एषा मनुष्यान् संस्कृत्य देवान् करोति अतः एषा देवभाषा इति कथ्यते । 

Saturday, September 19, 2015

“ये ये छात्राः उत्तरं वदन्ति, ते उत्तीर्णाः भवन्ति”, किमयं प्रयोगः समीचीनः?

  प्रश्नः - “ये ये छात्राः उत्तरं वदन्ति, ते उत्तीर्णाः भवन्ति”, किमयं प्रयोगः समीचीनः? “ते ते उत्तीर्णाः भवन्ति” इति द्विवारमेव प्रयोगः कर्तव्यः उत एकवारं प्रयोगः अपि युज्यते ?
उत्तरम् - एकवारं प्रयोगः अपि न दोषाय । यथा कात्यायनस्य वार्तिके प्रयोगः “कारकं चेत् विजानीयात् यां यां मन्येत सा भवेत्” । नात्र सा सा भवेत् इति प्रयोगः कृतः । अतः उद्देशे वीप्सा (द्विः प्रयोगः) वर्तते चेदपि प्रतिनिर्देशे वीप्सा विवक्षामनुसृत्य भवति । अतः “ते ते उत्तीर्णाः भवन्ति”, इति प्रयोगः अपि शक्यते कर्तुं, “ते उत्तीर्णाः भवन्ति” इति च । 

Friday, September 18, 2015

सङ्ग्रहः

विस्तरेणोपदिष्टानाम् अर्थानां तत्त्वसिद्धये । समासेनाभिधानं यत् सङ्ग्रहं तं विदुर्बुधाः ॥
यद्वा
विस्तरेणोपदिष्टानाम् अर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ॥

विस्तरेण भाष्यादिषु ग्रन्थेषु उपदिष्टानां विषयाणाम् यत्र अल्पशैः शब्दैः निरूप्यते, तं सङ्ग्रहं विदुः ।

Wednesday, September 16, 2015

गणपतिमद्य स्तुमः

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ।
ऋग्वेदः – २/३/२३
अयं गृत्स्नमद-ऋषेः मन्त्रः । अस्य मन्त्रस्य देवता ब्रह्मणस्पतिः । यद्यपि अत्र पुराणादिषु प्रसिद्धः गणपतिः देवता न, तथापि अयं वेदोक्तः ब्रह्मणस्पतिः एव कालान्तरे गणपतित्वेन परिकल्पितः इति विदुषां वादः ।
अस्य मन्त्रस्य त्वयमर्थः सायणभाष्ये उपलभ्यते । हे ब्रह्मणस्पते - ब्रह्मणः अन्नस्य कर्मणः मन्त्राणां वा पतिः, गणानां - देवगणानां सम्बन्धिनं, गणपतिं - स्वगणानां पतिः तं, कवीनां कविं – क्रान्तदर्शिनां क्रान्तदर्शी तं, उपमश्रवस्तमं – श्रेष्ठान्नवन्तं, ज्येष्ठराजम् – श्लाघ्यानां मध्ये राजन्तं, ब्रह्मणां – मन्त्राणां स्वामिनं, त्वा हवामहे – त्वाम् अस्मिन् कर्मणि आह्वयामः, नः - अस्माकं, स्तुतीः शृण्वन्, ऊतिभिः – रक्षणैः, सादनम् – यज्ञगृहम्, आ सीद – उपविश ।
       गणपतेः अद्यत्वे आदिपूज्यत्वादयः ये धर्माः उच्यन्ते तेषां मूलमत्रैव दृश्यते । अत्र ब्रह्मणस्पतिः कर्मणां पतिः, देवगणानां पतिः, क्रान्तदर्शिनाम् अपि क्रान्तदर्शी अतः विद्याधिदेवः, अन्नस्य पतिः अतः सर्वभक्ष्याणां प्रदाता, यज्ञकर्तुः यज्ञस्य च रक्षकः अतः सर्वविघ्नानां विनाशकः ।

एतादृशं गणपतिमद्य स्तुमः 

Tuesday, September 15, 2015

प्रकरणम्


शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥
शास्त्रैकदेशेन सम्बद्धं तच्छास्त्र-उपोद्बलकं ग्रन्थविशेषं प्रकरणम् आहुः । यथा वेदान्तशास्त्रस्य वेदान्तपरिभाषा ।

सूत्रलक्षणम्


अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
अल्पाक्षरम् - अक्षराणाम् अल्पता, अदन्दिग्धम् - सन्देहाभाववत्वं, सारवत् - सारभूतत्वं, विश्वतोमुखम् - वक्तव्यसर्वविषयव्यापित्वं, (स्तोभः निरर्थकमक्षरम्) अस्तोभं निरर्थकाक्षरराहित्यम्, (अवद्यम् अर्थदोषः), अनवद्यम् अर्थदोषराहित्यम् एते यत्र भवन्ति तत्सूत्रमिति कथ्यते । अत्रार्थे कारिकान्तरम् ।

लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ - भामती

Sunday, September 13, 2015

कस्य देवस्य इति प्रश्नः कथं साधु ?

         प्रश्नः - ‘देवालयः’ इति कश्चित् प्रयुङ्क्ते । कस्य देवस्य इति प्रश्नः कथं साधु ? यतोऽहि देवालयः इति समस्तं पदम् । तत्पुरुषसमासः । तत्पुरुषसमासे च उत्तरपदार्थस्य प्राधान्यम् । पूर्वपदार्थः तु उपसर्जनीभूतः एव । देवालयः इति समस्ते पदे आलयः इति उत्तरपदम् । अतः तत्पदार्थस्य एव प्राधान्यम् । सर्वनाम्नः च उत्सर्गतः प्रधानपरामर्शित्वम् इति नियमः । अतः कस्य इत्यनेन आलयस्य एव परामर्शः युक्तः न तु देवस्य । तस्मात् कस्य देवस्य इति प्रश्नः कथं साधु स्यात् ।

उत्तरम् – नात्र दोषः वर्तते । उत्तरपदार्थान्तर्गतस्य अपि पूर्वपदार्थस्य बुद्ध्या विभागं परिकल्प्य अन्वयः भवितुमर्हति । यथा महाभाष्ये पश्पशाह्निके – ’अथ शब्दानुशासनम् । केषां शब्दानाम्’ इति उत्तरपदार्थान्तर्गतपूर्वपदार्थस्य केषाम् इति सर्वनाम्ना प्रत्यवमर्शः ।

Saturday, September 12, 2015

यत् शैत्यं तत् जलस्य प्रकृतिः इति प्रयोगः कथम्?

   प्रश्नः - “छात्रेषु यः हरीशनामा सः मम मित्रम् “। अत्र सः मम मित्रम् इति प्रयोगः समीचीनः वा? उत तत् मम मित्रमिति ? उदाहरणान्तरम् - “यत् शैत्यं तत् जलस्य प्रकृतिः” । अत्र तत् जलस्य प्रकृतिः इति प्रयोगः युज्यते उत सः जलस्य प्रकृतिः इति । अर्थात् द्वितीयेन सर्वनामपदेन (सः, तत्) किं पूर्वोक्तस्य एव परामर्शः कर्तव्यः उत (हरीशनामा, शैत्यम्) पश्चात् विधीयमानस्य परामर्शः (मित्रम्, प्रकृतिः) इति सन्देहः ।
उत्तरम् - उभयत्रापि अन्वयः समीचीनः एव । “छात्रेषु यः हरीशनामा सः मम मित्रम्” अथवा “तत् मम मित्रम्” उभयथा अपि प्रयोगः साधु । द्वितीयोदाहरणे अपि “यत् शैत्यं तत् जलस्य प्रकृतिः”, “सः जलस्य प्रकृतिः” उभयथापि साधु । यत्र वाक्ये किञ्चित् उद्दिश्य यत्किञ्चित् विधीयते तत्र उद्देशस्य विधेयस्य वा लिङ्गस्य परामर्शः सर्वनाम्नः इष्टः एव । प्रथमोदाहरणे हरीशनामानम् उद्दिश्य मित्रत्वं विधीयते । द्वितीयवाक्ये शैत्यम् उद्दिश्य जलप्रकृतित्वं विधीयते । अत्र प्रमाणं तु भाष्यप्रयोगः एव । तथाहि पश्पशाह्निके – “किं यत्तत् सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपम्, स शब्दः” इति भाष्यस्य व्याख्यानावसरे प्रदीपे – “उद्दिश्यमानप्रतिनिर्दिश्यमानयोः एकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददत इति कामचारतः ‘स शब्दः’ इति पुंलिङ्गेन निर्देशः” इति । तत्रैव उद्योते उद्देशप्रतिनिर्देशयोः अर्थः इत्थमुक्तः – सिद्धवत्कीर्तनम् उद्देशः । प्रतिपाद्यतया विधेयतया वा कीर्तनं प्रतिनिदेशः । 

'पठनीयं मया श्लोकः' इति प्रयोगः किं समीचीनः?

प्रश्नः - ननु “पठनीयं मया श्लोकः” इति प्रयोगः समीचीनः वा? श्लोकः इति शब्दः पुंलिङ्गे अस्ति, अतः ‘पठनीयः’ इति पुंलिङ्गे एव प्रयोगः करणीयः खलु? एवं “वक्तव्यं भवता कथा” इत्यादिप्रयोगाः समीचीनाः वा ?

उत्तरम् - समीचीनम्, भाष्येऽपि एतादृशः प्रयोगः दृश्यते । यथा “शक्यं चानेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्” (महाभाष्ये पश्पशाह्निके ‘लोकतः अर्थप्रयुक्ते शास्त्रेण धर्मनियमः यथा लौकिकवैदिकेषु’ इति वार्तिकस्य व्याख्यानावसरे) इति । अत्र क्षुत् इति स्त्रीलिङ्गे वर्तते अतः ‘शक्या’ इति वक्तव्ये शक्यमिति प्रयोगः भाष्यकारैः कृतः । तत्र कैयटेन उक्तम्, कर्मसामान्यविवक्षायां प्रयुक्तं नपुंसकं ततः शब्दान्तरसम्बन्धात् उपजायमानमपि स्त्रीत्वं बहिरङ्गत्वात् न बाधते इति । शक्या---क्षुत् प्रयोगः अपि समीचीनः एव । तदा प्रयुज्यमानं विशेष्यं मनसि निधाय प्रयोगः कृतः इति वक्तव्यम् । एवं पठनीयमिति प्रयोगकाले अपि क्रियासामान्यविवक्षया नपुंसकप्रयोगः । ततः श्लोकः इत्यस्य प्रयोगेऽपि न दोषः । किन्तु “श्लोकः मया पठनीयम्’ इति प्रयोगः न समीचीनः । अत्र विशेष्यस्य पूर्वमेव प्रयुक्तत्वात् ।