Pages

Thursday, August 10, 2017

अनुबन्धचतुष्टयम्


विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम्।                                                      
अनुबन्धं विना ग्रन्थे मङ्गलं नैव शस्यते॥१३८॥

विषयः अधिकारी सम्बन्धः प्रयोजनम् इति अनुबन्धचतुष्टयम्। सर्वेषां ग्रन्थानामादौ अनुबन्धानां निरूपणं क्रियते।

Tuesday, August 8, 2017

शास्त्रम्

किं नाम शास्त्रं कि तस्य लक्षणमिति स्यादाशङ्का। तल्लक्षणमेवमुक्तम् -

प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा।                                                                   
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते॥
यत् पुंसां नित्येन अनित्येन वा प्रवृत्तिं निवृत्तिं वा अवबोधयति तत् शास्त्रम्। कारिकान्तरम् -

शासनात् शंसनात् शास्त्रं शास्त्रमित्यभिधीयते।                                                       
शासनं द्विविधं प्रोक्तं शास्त्रलक्षणवादिभि:॥
शास्त्रपदस्य अर्थद्वयं शासनं शंसनं चेति। शासनं द्विविधं प्रवृत्ति: निवृत्तिर्वा। शासनार्थे शास्त्रं क्रियाप्रेरकमत: पुरुषतन्त्रम्। शंसनार्थे शास्त्रं ज्ञानपरमत: वस्तुतन्त्रम्।



दर्शनानि


कणादस्याक्षपादस्य व्यासस्य कपिलस्य च।                                                                       
 पतञ्जले: जैमिनेश्च दर्शनानि षडेव हि॥१३३॥
शैवं च वैष्णवं शाक्तं सौरं वैनायकं तथा।                                                               
स्कान्दं च भक्तिमार्गस्य दर्शनानि षडेव हि॥१३४॥
कणादस्य वैशेषिकदर्शनम् ।(अक्षपाद: - गौतम:) गौतमस्य न्यायदर्शनम्। व्यासस्य उत्तरमीमांसादर्शनम् (वेदान्तदर्शनम्)। कपिलस्य सांख्यदर्शनंम्। पतञ्जले: योगदर्शनम्। जैमिने: पूर्वमीमांसादर्शनम्  इति षट् आस्तिकदर्शनानि। शैवं वैष्णवं शाक्तं सौरं वैनायकं स्कान्दम् इति षट् भक्तिमार्गस्य दर्शनानि। श्लोके चार्वाकबौद्धजैनाख्यानि नास्तिकदर्शनानि नोक्तानि।

Wednesday, September 30, 2015

व्याख्यानम्


पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं षड्विधं मतम् ॥


व्याख्यानमिति तत् कथ्यते यत्र एते षडंशाः भवन्ति । ते च पदविभागः पदार्थानां कथनम्, समासानां विग्रहप्रदर्शनम्, वाक्यानां योजनम्, आक्षेपः समाधानम् इति । तद्यथा काशिकाग्रन्थे वृद्धिरादैच् इति पाणिनीयसूत्रस्य निरूपणावसरे, पदच्छेदः – वृद्धिः आत्-ऐच्, पदार्थोक्तिः – वृद्धिः संज्ञा आत् दीर्घाकारात् ऐच् – ऐ औ, विग्रहः – आत् च ऐत् च आदैच् । वाक्ययोजना – आदैच् आ ऐ औ एते वृद्धिसंज्ञकाः स्युः, आक्षेपः – ननु अयं नियमः प्रसिद्धः यत् उद्देशमुक्त्वा ततः विधेयः वक्तव्यः इति ? कथमत्र विधेयस्य सूत्रस्य प्राथम्यम् ? समाधानम् – वृद्धेः मङ्गलार्थकत्वात् तस्य प्राथम्येन प्रयोगः ।

व्याकरणशास्त्रस्य प्रमुखाः ग्रन्थाः

अष्टाध्यायी – पाणिनिः
वार्तिकम् – वररुचिः (कात्यायनः)
महाभाष्यम् – पतञ्जलिः
        1.    प्रदीपः – कैयटः (महाभाष्यव्याख्यानम्)
        2.   उद्योतः – नागेशः (महाभाष्यव्याख्यानम्)

सूत्रक्रमेण व्याख्यानम्
काशिका – वामनः, जयादित्यः
        1.   न्यासः – जिनेन्द्रबुद्धिः (काशिकाव्याख्यानम्)
        2.   पदमञ्जरी – हरदत्तः (काशिकाव्याख्यानम्)
शब्दकौस्तुभः - भट्टोजिदीक्षितः

प्रक्रियाक्रमेण व्याख्यानम्
प्रक्रियाकौमुदी – रामचन्द्राचार्यः
          1. प्रसादः – विट्ठलाचार्यः (व्याख्यानम्)
सिद्धान्तकौमुदी – भट्टोजिदीक्षितः
          1. बालमनोरमा – वासुदेवदीक्षितः (कौमुदीव्याख्यानम्)
          2.  तत्त्वबोधिनी – ज्ञानेन्द्रसरस्वती (कौमुदीव्याख्यानम्)
          3.  प्रौढमनोरमा – भट्टोजिदीक्षितः (कौमुदीव्याख्यानम्)
              a.   बृहच्छब्दरत्नम्, लघुशब्दरत्नम् – हरिदीक्षितः (भट्टोजिदीक्षितस्य पौत्रः, नागेशभट्टस्य अयं ग्रन्थः इति केचित्)
              b.   रत्नप्रभा – सभापत्युपाध्यायः
              c.   सरला – नेनेपण्डितगोपालशास्त्री
              d.   प्रभा – भाण्डारिमाधवशास्त्री
              e.   बृहच्छन्देन्दुशेखरः, लघुशब्देन्दुशेखरः – नागेशभट्टः (व्याख्यानम्, स्वतन्त्रविचाराश्च । भट्टोजिदीक्षितानां पौत्रस्य शिष्यः)
                                    i.   चन्द्रकला – भैरवमिश्रः (शेखरग्रन्थस्य व्याख्यानम्)
                                   ii.   चिदस्थिमाला – पायगुण्डेवैद्यनाथः (शेखरग्रन्थस्य व्याख्यानम्)
                                  iii.   दीपकः – नित्यानन्दपन्तः (शेखरग्रन्थस्य व्याख्यानम्)

लघुसिद्धान्तकौमुदी - वरदराजभट्टाचार्यः


अन्ये ग्रन्थाः –
वाक्यपदीयम् – भर्तृहरिः
    1.   अम्बाकर्त्री – रघुनाथशर्मा
परिभाषेन्दुशेखरः – नागेशभट्टः
    1.   गदा – पायगुण्डेवैद्यनाथः
    2.   हैमवती – यागेश्वर-ओझा
वैयाकरणभूषणकारिकाः - भट्टोजिदीक्षितः
  वैयाकरणसिद्धान्तभूषणम्/ वैयाकरणसिद्धान्तभूषणसारः – कौण्डिभट्टः (भट्टोजिदीक्षितस्य भ्रातुष्पुत्रः)
        1.   काशिका – हरिरामकेशव काले
        2.   दर्पणम् - हरिवल्लभशर्मा

लघुमञ्जूषा,, परमलघुमञ्जूषा  - नागेशभट्टः 

Monday, September 28, 2015

संस्कृतं संस्कृतिः च

भारतीयपरम्परायां कानिचन पदानि प्रसिद्धानि वर्तन्ते । तत्रापि संस्कारः संस्कृतिः इति पदद्वयं बहुकृत्वः प्रयुज्यते । प्रत्येकं व्यक्तौ विद्यमानानां दोषाणां दूरीकरणाय गुणानाम् आधानाय वा ये च नियमाः उक्ताः ते संस्काराः इति कथ्यन्ते । गर्भाधानादारभ्य आमरणं बहुविधसंस्काराः उक्ताः अस्यां परम्परायाम् । यथा संस्कारैः क्वचित् क्षिप्तमपि पाषाणं विग्रहरूपतां प्राप्य सर्वैः संपूज्यं भवति एवं मनुष्यः अपि देवस्वरूपतां विन्दति । या परम्परा संस्कारघटिता सा संस्कृतिः इति कथ्यते । संस्कारश्च प्राधान्येन व्यक्तिस्तरे भवति । अतः संस्कृतिः अपि व्यक्तौ गुणाधानार्थं दोषापनयनार्थं वा प्रयतते । तस्मात् एव संस्कृतौ धर्मस्य प्राधान्यम् । यस्मात् अभ्युदयनिश्श्रेयससिद्धिः भवति स धर्मः ।  अद्यत्वे नागरीकता प्राधान्यं वहति । अत्र व्यक्तिसंस्कारापेक्षया व्यक्तिस्वातन्त्र्यं प्रधानम् । संस्कारः स्वातन्त्र्यम् अंशतः निर्बध्नाति । अतः अनयोः विरोधः वर्तते इति केचन मन्वते । संस्कारस्य प्राप्त्यर्थं संस्कृतेः पालनार्थं च संस्कृतमपेक्षितमेव । 

Wednesday, September 23, 2015

संस्कृतं वेदभाषा अतः अपि देवभाषा

       यतश्च इयं वेदभाषा अतः अपि इयं देवभाषा । वेदाः स्वस्य अवगतेः पन्थानं प्रदर्शयन्ति । यः स्वात्मानमेव न जानाति स कथम् इदं जगत् अवगच्छेत् ! यया भाषया वेदाः अवगन्तुं शक्यन्ते सा संस्कृतभाषा । वेदोक्ताः अर्थाः यथा अनया भाषया प्रकाश्यन्ते न तथा अन्यया भाषया । यथा ‘प्रेतः’ इत्यस्य कः अर्थः आङ्ग्लभाषायां वक्तुं शक्यः । Dead इति अस्य विवरणं कर्तव्यम् । किं प्रेतः इत्यस्य तावानेव अर्थः ? प्र-उपसर्गपूर्वकस्य इण् गतौ इति धातोः क्तप्रत्ययान्तं रूपं प्रेतः इति । प्रकर्षेण गतः इत्यर्थः । यः गच्छति सः कुतश्चित् देशात् देशान्तरं गच्छति । अत्र कस्य कुतः गमनम् ? सूक्ष्मशरीरस्य स्थूलशरीरात् गमनम् । एवं च प्रेतः नाम स्थूलशरीरं परित्यज्य गतः इत्यर्थः । प्रेतः इति पदेन स्थूलशरीरात् भिन्नं किञ्चित् सूक्ष्मशरीरं वर्तते, तस्य स्थूलशरीरात् वियोगः एव मरणम् । तच्च सूक्ष्मशरीरं स्वकर्मानुसारं शरीरान्तरप्राप्तये गच्छति इत्यादयः अर्थाः मनसि उपतिष्ठन्ते । किमेते अर्थाः Dead इति एकेन पदेन निर्वक्तुं शक्याः । एषा भाषा संस्कारयुक्ता इत्यतः एव एतावन्तमर्थं बोधयितुं शक्नोति । एवं च संस्कृतं वेदार्थम् अवगमयति तेन च स्वस्वरूपावगमः ।  यतः एवं स्वस्य (देवस्य) अवगतये सहकरोति अतः इयं देवभाषा ।